सामग्री पर जाएँ

तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०८

विकिस्रोतः तः

2.8.1.1 काम्यपशूनां याज्यानुवाक्याः

पीवोन्नाꣳ रयिवृधः सुमेधाः । श्वेतः सिषक्ति नियुतामभिश्रीः । ते वायवे समनसो वितस्थुः । विश्वेन्नरः स्वपत्यानि चक्रुः । रायेऽनु यं जज्ञतू रोदसी उभे । राये देवी धिषणा धाति देवम् । अधा वायुं नियुतः सश्चत स्वाः । उत श्वेतं वसुधितिं निरेके । आ वायो । प्र याभिः । प्र वायुमच्छा बृहती मनीषा १

बृहद्र यिं विश्ववाराꣳ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः । कविः कविमियक्षसि प्रयज्यो । आ नो नियुद्भिः शतिनीभिरध्वरम् । सहस्रिणी-भिरुप याहि यज्ञम् । वायो अस्मिन्हविषि मादयस्व । यूयं पात स्वस्तिभिः सदा नः । प्रजापते न त्वदेतान्यन्यः । विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु २

वयꣳ स्याम पतयो रयीणाम् । रयीणां पतिं यजतं बृहन्तम् । अस्मिन्भरे नृतमं वाजसातौ । प्रजापतिं प्रथमजामृतस्य । यजाम देवमधि नो ब्रवीतु । प्रजापते त्वं निधिपाः पुराणः । देवानां पिता जनिता प्रजानाम् । पतिर्विश्वस्य जगतः परस्पाः । हविर्नो देव विहवे जुषस्व । तवेमे लोकाः प्रदिशो दिशश्च ३
परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्य इदं नो देव । प्रतिहर्य हव्यम् । प्रजापतिं प्रथमं यज्ञियानाम् । देवानामग्रे यजतं यजध्वम् । स नो ददातु द्र विणꣳ सुवीर्यम् । रायस्पोषं विष्यतु नाभिमस्मे । यो राय ईशे शतदाय उक्थ्यः । यः पशूनाꣳ रक्षिता विष्ठितानाम् । प्रजापतिः प्रथमजा ऋतस्य ४

सहस्रधामा जुषताꣳ हविर्नः । सोमापूषणेमौ देवौ । सोमापूषणा रजसो विमानम् । सप्तचक्रꣳ रथमविश्वमिन्वम् । विषूवृतं मनसा युज्यमानम् । तं जिन्वथो वृषणा पञ्चरश्मिम् । दिव्यन्यः सदनं चक्र उच्चा । पृथिव्यामन्यो अध्यन्तरिक्षे । तावस्मभ्यं पुरुवारं पुरुक्षुम् । रायस्पोषं विष्यतां नाभिमस्मे ५

धियं पूषा जिन्वतु विश्वमिन्वः । रयिꣳ सोमो रयिपतिर्दधातु । अवतु देव्यदितिरनर्वा । बृहद्वदेम विदथे सुवीराः । विश्वान्यन्यो भुवना जजान । विश्वमन्यो अभिचक्षाण एति । सोमापूषणाववतं धियं मे । युवभ्यां विश्वाः पृतना जयेम । उदुत्तमं वरुणास्तभ्नाद्द्याम् । यत्किं चेदं कितवासः । अव ते हेडस्तत्त्वा यामि । आदित्यानामवसा न दक्षिणा । धारयन्त आदित्यासस्तिस्रो भूमीर्धारयन् । यज्ञो देवानाꣳ शुचिरपः ६


2.8.2

ते शुक्रासः शुचयो रश्मिवन्तः । सीदन्नादित्या अधि बर्हिषि प्रिये । कामेन देवाः सरथं दिवो नः । आयान्तु यज्ञमुप नो जुषाणाः । ते सूनवो अदितेः पीवसामिषम् । घृतं पिन्वत्प्रतिहर्यन्नृतेजाः । प्र यज्ञिया यजमानाय येमुरे । आदित्याः कामं पितुमन्तमस्मे । आ नः पुत्रा अदितेर्यान्तु यज्ञम् । आदित्यासः पथिभिर्देवयानैः १

अस्मे कामं दाशुषे सन्नमन्तः । पुरोडाशं घृतवन्तं जुषन्ताम् । स्कभायत निरृतिꣳ सेधतामतिम् । प्र रशिभिर्यतमाना अमृध्राः । आदित्याः काम प्रयतां वषट्कृतिम् । जुषध्वं नो हव्यदातिं यजत्राः । आदित्यान्काममवसे हुवेम । ये भूतानि जनयन्तो विचिख्युः । सीदन्तु पुत्रा अदितेरुपस्थम् । स्तीर्णं बर्हिर्हविरद्याय देवाः २

स्तीर्णं बर्हिः सीदता यज्ञे अस्मिन् । ध्राजाः सेधन्तो अमतिं दुरेवाम् । अस्मभ्यं पुत्रा अदितेः प्रयꣳ सत । आदित्याः काम हविषो जुषाणाः । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमौक्तिं विधेम । प्र वः शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ३

यो दैव्यानि मानुषा जनूꣳ षि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्र विणं भिक्षमाणाः । सुसंदृशꣳ सुप्रतीकꣳ स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र ४

अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी ।भवा तोकाय तनयाय शं योः । प्र कारवो मनना वच्यमानाः । देवद्री चीं नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची ।इन्द्रं नरो । युजे रथम् । ।जगृभ्णा ते दक्षिणामिन्द्र हस्तम् ५

वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिꣳ शूर गोनाम् । अस्मभ्यं चित्रं वृषणꣳ रयिं दाः । तवेदं विश्वमभितः पशव्यम् । यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र । भक्षीमहि ते प्रयतस्य वस्वः । समिन्द्र णो मनसा नेषि गोभिः । सꣳ सूरिभिर्मघवन्त्सꣳ स्वस्त्या । सं ब्रह्मणा देवकृतं यदस्ति ६

सं देवानाꣳ सुमत्या यज्ञियानाम् । आराच्छत्रुमप बाधस्व दूरम् । उग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद्गोमदिन्द्र । कृधी धियं जरित्रे वाजरत्नाम् । आ वेधसꣳ । स हि शुचिः । बृहस्पतिः प्रथमं जायमानः । महो ज्योतिषः परमे व्योमन् । सप्तास्यस्तुविजातो रवेण । वि सप्तरश्मिरधमत्तमाꣳ सि ७

बृहस्पतिः समजयद्वसूनि । महो व्रजान्गोमतो देव एषः । अपः सिषासन्त्सुवरप्रतीत्तः । बृहस्पतिर्हन्त्यमित्रमर्कैः । बृहस्पते परि । एवा पित्रे । आ नो दिवः । पावीरवी । इमा जुह्वाना । यस्ते स्तनः । सरस्वत्यभि नो नेषि । इयꣳ शुष्मेभिर्बिसखा इवारुजत् । सानु गिरीणां तविषेभिरूर्मिभिः । पारावदघ्नीमवसे सुवृक्तिभिः । सरस्वतीमाविवासेम धीतिभिः ८


2.8.3

सोमो धेनुꣳ सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु । सादन्यं विदथ्यꣳ सभेयम् । पितुःश्रवणं यो ददाशदस्मै । अषाढं युत्सु । त्वꣳ सोम क्रतुभिः । ।या ते धामानि हविषा यजन्ति । ।त्वमिमा ओषधीः सोम विश्वाः । त्वमपो अजनयस्त्वं गाः । त्वमाततन्थोर्वन्तरिक्षम् । त्वं ज्योतिषा वि तमो ववर्थ १

या ते धामानि दिवि या पृथिव्याम् । या पर्वतेष्वोषधीष्वप्सु । तेभिर्नो विश्वैः सुमना अहेडन् । राजन्त्सोम प्रति हव्या गृभाय । विष्णोर्नु कं। तदस्य प्रियम् । प्र तद्विणुः । ।परो मात्रया तनुवा वृधान । न ते महित्वमन्व-श्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् । परमस्य वित्से २

विचक्रमे । त्रिर्देवः । आ ते महो । यो जात एव । अभि गोत्राणि । आभिः स्पृधो मिथतीररिषण्यन् । अमित्रस्य व्यथया मन्युमिन्द्र आभिर्विश्वा अभियुजो विषूचीः । आर्याय विशोऽवतरीर्दासीः । अयꣳ शृण्वे अध जयन्नुत घ्नन् । अयमुत प्रकृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रः ३

विश्वं दृढं भयत एजदस्मात् । अनु स्वधामक्षरन्नापो अस्य । अवर्धत मध्य आ नाव्यानाम् । सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन । हन्मनाहन्नभि द्यून् । मरुत्वन्तं वृषभं वावृधानम् । अकवारिं दिव्यꣳ शासमिन्द्र म् । विश्वा-साहमवसे नूतनाय । उग्रꣳ सहोदामिह तꣳ हुवेम । जनिष्ठा उग्रः सहसे तुराय ४

मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र । माता यद्वीरं दधनद्धनिष्ठा । क्व स्या वो मरुतः स्वधासीत् । यन्मामेकꣳ समधत्ताहिहत्ये । अहꣳ ह्युग्रस्तविषस्तुविष्मान् । विश्वस्य शत्रोरनमं वधस्नैः । वृत्रस्य त्वा श्वसथादीषमाणाः । विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु ५

अथेमा विश्वाः पृतना जयासि । वधीं वृत्रं मरुत इन्द्रि येण । स्वेन भामेन तविषो बभूवान् । अहमेता मनवे विश्वश्चन्द्रा ः! । सुगा अपश्चकर वज्रबाहुः । स यो वृषा वृष्णियेभिः समोकाः । महो दिवः पृथिव्याश्च सम्राट् । सतीनसत्त्वा हव्यो भरेषु । मरुत्वान्नो भवत्विन्द्र ऊती । इन्द्रो वृत्रमतरद्वृत्रतूर्ये ६

अनाधृष्यो मघवा शूर इन्द्रः । अन्वेनं विशो अमदन्त पूर्विः । अयꣳ राजा जगतश्चर्षणीनाम् । स एव वीरः स उ वीर्यावान् । स एकराजो जगतः परस्पाः । यदा वृत्रमतरच्छूर इन्द्रः । अथाभवद्दमिताभिक्रतूनाम् । इन्द्रो यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशस्य जुषताꣳ हविर्नः । वृत्रं तीर्त्वा दानवं वज्रबाहुः ७

दिशोऽदृꣳ हद्दृꣳ हिता दृꣳ हणेन । इमं यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशं प्रतिगृभ्णात्विन्द्रः । यदा वृत्रमतर्च्छूर इन्द्रः । अथैकराजो अभवज्जनानाम् । इन्द्रो देवाञ्शम्बरहत्य आवत् । इन्द्रो देवानामभवत्पुरोगाः । इन्द्रो यज्ञे हविषा वावृधानः । वृत्रतूर्णो अभयꣳ शर्म यꣳ सत् । यः सप्त सिन्धूꣳ रदधा-त्पृथिव्याम् । यः सप्त लोकानकृणोद्दिशश । इन्द्रो हविष्मान्त्सगणो मरुद्भिः । वृत्रतूर्णो यज्ञमिहोपयासत् ८


2.8.4

इन्द्र स्तरस्वानभिमातिहोग्रः । हिरण्यवाशीरिषिरः सुवर्षाः । तस्य वयꣳ सुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्याम । हिरण्यवर्णो अभयं कृणोतु । अभिमातिहेन्द्रः पृतनासु जिष्णुः । स नः शर्म त्रिवरूथं वियꣳ सत् । यूयं पात स्वस्तिभिः सदा नः । इन्द्र ꣳ! स्तुहि वज्रिणꣳ स्तोमपृष्ठम् । पुरोडाशस्य जुषताꣳ हविर्नः १

हत्वाभिमातीः पृतनाः सहस्वान् । अथाभयं कृणुहि विश्वतो नः । स्तुहि शूरं वज्रिणमप्रतीतम् । अभिमातिहनं पुरुहूतमिन्द्र म् । य एक इच्छतपतिर्जनेषु । तस्मा इन्द्रा य हविराजुहोत । इन्द्रो देवानामधिपाः पुरोहितः । दिशां पतिरभवद्वाजिनीवान् । अभिमातिहा तविषस्तुविष्मान् । अस्मभ्यं चित्रं वृषणꣳ रयिं दात् २

य इमे द्यावापृथिवी महित्वा । बलेनादृꣳ हदभिमातिहेन्द्रः । स नो हविः प्रतिगृभ्णातु रातये । देवानां देवो निधिपा नो अव्यात् । अनवस्ते रथं। वृष्णे यत्ते । इन्द्र स्य नु वीर्याण्य् । अहन्नहिम् । ।इन्द्रो यातोऽवसितस्य राजा । शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षेति चर्षणीनाम् । अरान्न नेमिः परि ता बभूव ३

अभि सिध्मो अजिगादस्य शत्रून् । वि तिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रेणासृजद्वृत्रमिन्द्रः । प्र स्वां मतिमतिरच्छाशदानः । विष्णुं देवं वरुणमूतये भगम् । मेदसा देवा वपया यजध्वम् । ता नो यज्ञमागतं विश्वधेना । प्रजावदस्मे द्र विणेह धत्तम् । मेदसा देवा वपया यजध्वम् । विष्णुं च देवं वरुणं च रातिम् ४

ता नो अमीवा अपबाधमानौ । इमं यज्ञं जुषमाणावुपेतम् । विष्णूवरुणा युवमध्वराय नः । विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्यू हविषा वृधाना । ज्योतिषारातीर्दहतं तमाꣳ सि । ययोरोजसा स्कभिता रजाꣳ सि । वीर्येभिर्वीरतमा शविष्ठा । या पत्येते अप्रतीता शहोभिः । विष्णू अगन्वरुणा पूर्वहूतौ ५

विष्णूवरुणावभिशस्तिपा वाम् । देवा यजन्त हविषा घृतेन । अपामीवाꣳ सेधतꣳ रक्षसश्च । अथा धत्तं यजमानाय शं योः । अꣳ होमुचा वृषभा सुप्रतूर्ती । देवानां देवतमा शविष्ठा । विष्णूवरुणा प्रतिहर्यतं नः । इदं नरा प्रयतमूतये हविः । मही नु द्यावापृथिवी इह ज्येष्ठे । रुचा भवताꣳ शुचयद्भिरर्कैः ६

यत्सीं वरिष्ठे बृहती विमिन्वन् । नृवद्भ्योऽक्षा पप्रथानेभिरेवैः । प्र पूर्वजे पितरा नव्यसीभिः । गीर्भिः कृणुध्वꣳ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन । जनेन यातं महि वां वरूथम् । स इत्स्वपा भुवनेष्वास । य इमे द्यावापृथिवी जजान । उर्वी गभीरे रजसी सुमेके । अवꣳ शे धीरः शच्या समैरत् ७

भूरिं द्वे अचरन्ती चरन्तम् । पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे । तं पिपृतꣳ रोदसी सत्यवाचम् । इदं द्यावापृथिवी सत्यमस्तु । पितर्मातर्यदिहोपब्रुवे वाम् । भूतं देवानामवमे अवोभिः । विद्यामेषं वृजनं जीरदानुम् । उर्वी पृथ्वी बहुले दूरेऽन्ते । उपब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती ।द्यावा रक्षतं पृथिवी नो अभ्वात् । या जाता ओषधयो । ऽति विश्वाः परिष्ठाः । ।या ओषधयः सोमराज्ञीर् । अश्वावतीꣳ सोमवतीम् । ओषधीरिति मातरो । अन्या वो अन्यामवतु ८


2.8.5

शुचिं नु स्तोमꣳ । श्नथद्वृत्रम् । ।उभा वामिन्द्रा ग्नी। प्र चर्षणिभ्यः । ।आ वृत्रहणा । गीर्भिर्विप्रः । ।ब्रह्मणस्पते त्वमस्य यन्ता । सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्भद्रं यदवन्ति देवाः । बृहद्वदेम विदथे सुवीराः । स ईꣳ सत्येभिः सखिभिः शुचद्भिः । गोधायसं वि धनसैरतर्दत् । ब्रह्मणस्पतिर्वृषभिर्वराहैः १

घर्मस्वेदोभिर्द्र विणं व्यानट् । ब्रह्मणस्पतेरभवद्यथावशम् । सत्यो मन्युर्महि कर्मा करिष्यतः । यो गा उदाजत्स दिवे वि चाभजत् । महीव रीतिः शवसा सरत्पृथक् । इन्धानो अग्निं वनवद्वनुष्यतः । कृतब्रह्मा शूशुवद्रा तहव्य इत् । जातेन जातमति सृत्प्रसृꣳ सते । यंयं युजं कृणुते ब्रह्मणस्पतिः । ब्रह्मणस्पते सुयमस्य विश्वहा २

रायः स्याम रथ्यो विवस्वतः । वीरेषु वीराꣳ उपपृङ्ग्धि नस्त्वम् । यदीशानो ब्रह्मणा वेषि मे हवम् । स इज्जनेन स विशा स जन्मना । स पुत्रैर्वाजं भरते धना नृभिः । देवानां यः पितरमाविवासति । श्रद्धामना हविषा ब्रह्मणस्पतिम् । यस्ते पूषन्नावो अन्तः । शुक्रं ते अन्यत् । पूषेमा आशाः । प्रपथे पथामजनिष्ट पूषा ३
प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर्दिव आ पृथिव्याः । इडस्पतिर्मघवा दस्मवर्चाः । तं देवासो अददुः सूर्यायै । कामेन कृतं तवसꣳ स्वञ्चम् । अजाश्वः पशुपा वाजवस्त्यः । धियंजिन्वो विश्वे भुवने अर्पितः । अष्ट्रां पूषा शिथि-रामुद्वरीवृजत् ४

संचक्षाणो भुवना देव ईयते । शुची वो हव्या मरुतः शुचीनाम् । शुचिꣳ हिनोम्यध्वरꣳ शुचिभ्यः । ऋतेन सत्यमृतसाप आयन् । शुचिजन्मानः शुचयः पावकाः । प्र चित्रमर्कं गृणते तुराय । मारुताय स्वतवसे भरध्वम् । ये सहाꣳ सि सहसा सहन्ते । रेजते अग्ने पृथिवी मखेभ्यः । अꣳ सेष्वा मरुतः खादयो वः ५

वक्षःसु रुक्मा उपशिश्रियाणाः । वि विद्युतो न व्यृष्टिभी रुचानाः । अनु स्वधामायुधैर्यच्छमानाः । या वः शर्म शशमानाय सन्ति । त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वियन्त । रयिं नो धत्त वृषणः सुवीरम् । इमे तुरं मरुतो रामयन्ति । इमे सहः सहस आनमन्ति । इमे शꣳ सं वनुष्यतो निपान्ति ६

गुरु द्वेषो अररुषे दधन्ति । अरा इवेदचरमा अहेव । प्र प्रजायन्ते अकवा महोभिः । पृश्नेः पुत्रा उपमासो रभिष्ठाः । स्वया मत्या मरुतः संमिमिक्षुः । अनु ते दायि मह इन्द्रि याय । सत्रा ते विश्वमनु वृत्रहत्ये । अनु क्षत्त्रमनु सहो यजत्र । इन्द्र देवेभिरनु ते नृषह्ये । य इन्द्र शुष्मो मघवन्ते अस्ति ७

शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वꣳ हि दृढा मघवन्विचेताः । अपावृधि परिवृतिं न राधः । इन्द्रो राजा जगतश्चर्षणीनाम् । अधि क्षमि विषुरूपं यदस्ति । ततो ददातु दाशुषे वसूनि । चोदद्रा ध उपस्तुतश्चिदर्वाक् । तमु ष्टुहि यो अभिभूत्योजाः । वन्वन्नवातः पुरुहूत इन्द्रः । अषाढमुग्रꣳ सहमान-माभिः ८

गीर्भिर्वर्ध वृषभं चर्षणीनाम् । स्थूरस्य रायो बृहतो य ईशे । तमु ष्टवाम विदथेष्विन्द्र म् । यो वायुना जयति गोमतीषु । प्र धृष्णुया नयति वस्यो अच्छ । आ ते शुष्मो वृषभ एतु पश्चात् । ओत्तरादधरागा पुरस्तात् । आ विश्वतो अभि समेत्वर्वाङ्।इन्द्र द्युम्नꣳ सुवर्वद्धेह्यस्मे ९


2.8.6

आ देवो यातु सविता सुरत्नः । अन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि । निवेशयन्च प्रसुवन्च भूम । अभीवृतं कृशनैर्विश्वरूपम् । हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्र थꣳ सविता चित्रभानुः । कृष्णा रजाꣳ सि तविषीं दधानः । स घा नो देवः सविता सवाय । आसाविषद्वसु-पतिर्वसूनि १

विश्रयमाणो अमतिमुरूचीम् । मर्तभोजनमध रासते न । वि जनाञ्श्यावाः शितिपादो अख्यन् । रथꣳ हिरण्यप्रौगं वहन्तः । शश्वद्दिशः सवितुर्दैव्यस्य । उपस्थे विश्वा भुवनानि तस्थुः । वि सुपर्णो अन्तरिक्षाण्यख्यत् । गभीरवेपा असुरः सुनीथः । क्वेदानीꣳ सूर्यः कश्चिकेत । कतमां द्याꣳ रश्मिरस्याततान २

भगं धियं वाजयन्तः पुरन्धिम् । नराशꣳ सो ग्नास्पतिर्नो अव्यात् । आऽये वामस्य संगथे रयीणाम् । प्रिया देवस्य सवितुः स्याम । आ नो विश्वे अस्क्रा गमन्तु देवाः । मित्रो अर्यमा वरुणः सजोषाः । भुवन्यथा नो विश्वे वृधासः । करन्त्सुषहा विथुरं न शवः । शं नो देवा विश्वदेवा भवन्तु । शꣳ सरस्वती सह धीभिरस्तु ३

शमभिषाचः शमु रातिषाचः । शं नो दिव्याः पार्थिवाः शं नो अप्याः । ये सवितुः सत्यसवस्य विश्वे । मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद्गोमदप्नः । दधातन द्र विणं चित्रमस्मे । अग्ने याहि दूत्यं वारिषेण्यः । देवाꣳ अच्छा ब्रह्मकृता गणेन । सरस्वतीं मरुतो अश्विनापः । यक्षि देवान्रत्नधेयाय विश्वान् ४

द्यौः पितः पृथिवि मातरध्रुक । अग्ने भ्रातर्वसवो मृडता नः । विश्व आदित्या आदिते सजोषाः । अस्मभ्यꣳ शर्म बहुलं वियन्त । विश्वे देवाः शृणुतेमꣳ हवं मे । ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्राः । आसद्यास्मिन्बर्हिषि मादयध्वम् । आ वां मित्रावरुणा हव्यजुष्टिम् । नमसा देवावववसा ववृत्याम् ५

अस्माकं ब्रह्म पृतनासु सह्या अस्माकम् । वृष्टिर्दिव्या सुपारा । युवं वस्त्राणि पीवसा वसाथे । युवोरच्छिद्रा मन्तवो ह सर्गाः । अवातिरतमनृतानि विश्वा । ऋतेन मित्रावरुणा सचेथे । तत्सु वां मित्रावरुणा महित्वम् । ईर्मा तस्थु-षीरहभिर्दुदुह्रे । विश्वाः पिन्वथ स्वसरस्य धेनाः अनु वामेकः पविराववर्ति ६

यद्बꣳ हिष्ठं नातिविदे सुदानू ।अच्छिद्र ꣳ! शर्म भुवनस्य गोपा । ततो नो मित्रा-वरुणाववीष्टम् । सिषासन्तो जीगिवाꣳ सः स्याम । आ नो मित्रावरुणा हव्यदातिम् । घृतैर्गव्यूतिमुक्षतमिडाभिः । प्रति वामत्र वरमा जनाय । पृणीतमुद्गो दिव्यस्यं चारोः । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिमुक्षतं घृतेन ७

आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हवेमा । इमा रुद्रा य स्थिरधन्वने गिरः । क्षिप्रेषवे देवाय स्वधाम्ने । अषाढाय सहमानाय मीढुषे । तिग्मायुधाय भरता शृणोतन । त्वा दत्तेभी रुद्र शंतमेभिः । शतꣳ हिमा अशीय भेषजेभिः । व्यस्मद्द्वेषो वितरं व्यꣳ हः । व्यमीवाꣳ श्चातयस्वा विषूचीः ८

अर्हन्बिभर्षि । मा नस्तोके । ।आ ते पितर्मरुताꣳ सुम्नमेतु । मा नः सूर्यस्य संदृशो युयोथाः । अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः । एवा बभ्रो वृषभ चेकितान । यथा देव न हृणीषे न हꣳ सि । हावनश्रूर्नो रुद्रे ह बोधि । बृहद्वदेम विदथे सुवीराः । परि णो रुद्रस्य हेतिः । स्तुहि श्रुतम् ।मीढुष्टमार्हन्बिभर्षि । त्वमग्ने रुद्र । आ वो राजानम् ९


2.8.7

सूर्यो देवीमुषसꣳ रोचमाना मर्यः । न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि । वितन्वते प्रति भद्राय भद्रम् । भद्रा अश्वा हरितः सूर्यस्य । चित्रा एदग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः । परि द्यावापृथिवी यन्ति सद्यः । तत्सूर्यस्य देवत्वं तन्महित्वम् । मध्या कर्तोर्विततꣳ संजभार १

यदेदयुक्त हरितः सधस्थात् । आद्रा त्री वासस्तनुते सिमस्मै । तन्मित्रस्य वरुणस्याभिचक्षे । सूर्यो रूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्द्रुशदस्य पाजः । कृष्णमन्यद्धरितः संभरन्ति । अद्या देवा उदिता सूर्यस्य । निरꣳ हसः पिपृतान्निरवद्यात् । तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यौः २

दिवो रुक्म उरुचक्षा उदेति । दूर अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूताः । आयन्नर्थानि कृणवन्नपाꣳ सि । शं नो भव चक्षसा शं नो अह्ना । शं भानुना शꣳ हिमा शं घृणेन । यथा शमस्मै शमसद्दुरोणे । तत्सूर्य द्र विणं धेहि चित्रम् । चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नेः ३

आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्च । त्वष्टा दधत् । तन्नस्तुरीपम् । ।त्वष्टा वीरं। पिशङ्गरूपः । ।दशेमं त्वष्टुर्जनयन्त गर्भम् । अतन्द्रा सो युवतयो बिभर्त्रम् । तिग्मानीकꣳ स्वयशसं जनेषु । विरोचमानं परि षीं नयन्ति । आविष्ट्यो वर्धते चारुरासु । जिह्मानामूर्ध्वः स्वयशा उपस्थे ४

उभे त्वष्टुर्बिभ्यतुर्जायमानात् । प्रतीची सिꣳ हं प्रतिजोषयेते । मित्रो जनान् । प्र स मित्र । ।अयं मित्रो नमस्यः सुशेवः । राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयꣳ सुमतौ यज्ञियस्य अपि भद्रे सौमनसे स्याम । अनमीवासं इडया मदन्तः । मितज्मवो वरिमन्ना पृथिव्याः । आदित्यस्य व्रतमुपक्ष्यन्तः ५

वयं मित्रस्य सुमतौ स्याम । मित्रं न ईꣳ शिम्या गोषु गव्यवत् । स्वाधियो विदथे अप्स्वजीजनन् । अरेजयताꣳ रोदसी पाजसा गिरा । प्रति प्रियं यजतं जनुषामवः । महाꣳ आदित्यो नमसोपसद्यः । यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टम् । अग्नौ मित्राय हविराजुहोत । आ वाꣳ रथो रोदसी बद्बधानः ६

हिरण्ययो वृषभिर्यात्वश्वैः । घृतवर्तनिः पविभी रुचानः । इषां वोढा नृपतिर्वाजिनीवान् । स पप्रथानो अभि पञ्च भूम । त्रिवन्धुरो मनसायातु युक्तः । विशो येन गच्छथो देवयन्तीः । कुत्राचिद्याममश्विना दधाना । स्वश्वा यशसायातमर्वाक् । दस्रा निधिं मधुमन्तं पिबाथः । वि वाꣳ रथो वध्वा यादमानः ७

अन्तान्दिवो बाधते वर्तनिभ्याम् । युवोः श्रियं परि योषा वृणीत । सूरो दुहिता परितक्मियायाम् । यद्देवयन्तमवथः शचीभिः । परिघ्रꣳ स वां मना वां वयो गाम् । यो ह स्य वाꣳ रथिरा वस्त उस्राः । रथो युजानः परियाति वर्तिः । तेन नः शं योरुषसो व्युष्टौ । न्यश्विना वहतं यज्ञे अस्मिन् । युवं भुज्युमवविद्धꣳ समुद्रे ८

उदूहथुरर्णसो अस्रिधानैः । पतत्रिभिरश्रमैरव्यथिभिः । दꣳ सनाभिरश्विना पारयन्ताम् । अग्नीषोमा यो अद्य वाम् । इदं वचः सपर्यति । तस्मै धत्तꣳ सुवीर्यम् । गवां पोषꣳ स्वश्वियं ।यो अग्नीषोमा हविषा सपर्यात् । देवद्री चा मनसा यो घृतेन । तस्य व्रतꣳ रक्षतं पातमꣳ हसः ९

विशे जनाय महि शर्म यच्छतम् । अग्नीषोमा य आहुतिम् । यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यम् । विश्वमायुर्व्यश्नवत् । अग्नीषोमा चेति तद्वीर्यं वाम् । यदमुष्णीतमवसं पणिं गोः । अवातिरतं प्रथयस्य शेषः अविन्दतंज्योतिरेकं बहुभ्यः । अग्नीषोमाविमꣳ सु मे । ऽग्नीषोमा हविषः प्रस्थितस्य १०


2.8.8

अहमस्मि प्रथमजा ऋतस्य । पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इदेव मावाः । अहमन्नमन्नमदन्तमद्मि । पूर्वमग्नेरपि दहत्यन्नम् । यत्तौ हासाते अहमुत्तरेषु । व्यात्तमस्य पशवः सुजम्भम् । पश्यन्ति धीराः प्रचरन्ति पाकाः । जहाम्यन्यं न जहाम्यन्यम् । अहमन्नं वशमिच्चरामि १

समानमर्थं पर्येमि भुञ्जत् । को मामन्नं मनुष्यो दयेत । पराके अन्नं निहितं लोक एतत् । विश्वैर्देवैः पितृभिर्गुप्तमन्नम् । यदद्यते लुप्यते यत्परोप्यते । शततमी सा तनूर्मे बभूव । महान्तौ चरू सकृद्दुग्धेन पप्रौ । दिवं च पृश्नि पृथिवीं च साकम् । तत्संपिबन्तो न मिनन्ति वेधसः । नैतद्भूयो भवति नो कनीयः २

अन्नं प्राणमन्नमपानमाहुः । अन्नं मृत्युं तमु जीवातुमाहुः । अन्नं ब्रह्माणो जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाम् । मोघमन्नं विन्दते अप्रचेताः । सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायम् । केवलाघो भवति केवलादी ।अहं मेघः स्तनयन्वर्षन्नस्मि । मामदन्त्यहमद्म्यन्यान् ३

अहꣳ सदमृतो भवामि । मदादित्या अधि सर्वे तपन्ति । []देवीं वाचमजनयन्त । यद्वाग्वदन्ति । अनन्तामन्तादधि निर्मितां महीम् । यस्यां देवा अद-धुर्भोजनानि । एकाक्षरां द्विपदाꣳ षट्पदां च । वाचं देवा उपजीवन्ति विश्वे । वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः । वाचीमा विश्वा भुवनान्यर्पिता ४

सा नो हवं जुषतामिन्द्र पत्नी ।वागक्षरं प्रथमजा ऋतस्य । वेदानां मातामृतस्य नाभिः । सा नो जुषाणोऽपयज्ञमागात् । अवन्ती देवी सुहवा मे अस्तु । यामृषयो मन्त्रकृतो मनीषिणः । अन्वैच्छन्देवास्तपसा श्रमेण । तां देवीं वाचꣳ हविषा यजामहे । सा नो दधातु सुकृतस्य लोके । चत्वारि वाक्परि-मिता पदानि ५

तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति । श्रद्धयाग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मूर्धनि । वचसावेदयामसि । प्रियꣳ श्रद्धे ददतः । प्रियꣳ श्रद्धे दिदासतः । प्रियं भोजेषु यज्वसु ६

इदं म उदितं कृधि । यथा देवा असुरेषु । श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वसु । अस्माकमुदितं कृधि । श्रद्धां देवा यजमानाः । वायुगोपा उपासते । श्रद्धाꣳ हृदय्ययाकूत्या । श्रद्धया हूयते हविः । श्रद्धां प्रातर्हवामहे ७

श्रद्धां मध्यंदिनं परि । श्रद्धाꣳ सूर्यस्य निम्रुचि । श्रद्धे श्रद्धापयेह मा । श्रद्धा देवानधिवस्ते । श्रद्धा विश्वमिदं जगत् । श्रद्धां कामस्य मातरम् । हविषा वर्धयामसि । ब्रह्म जज्ञानं प्रथमं पुरस्तात् । वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः ८

सतश्च योनिमसतश्च विवः । पिता विराजामृषभो रयीणाम् । अन्तरिक्षं विश्वरूप आविवेश । तमर्कैरभ्यर्चन्ति वह्सम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः । ब्रह्म देवानजनयत् । ब्रह्म विश्वमिदं जगत् । ब्रह्मणः क्षत्रं निर्मितम् । ब्रह्म ब्राह्मण आत्मना । अन्तरस्मिन्निमे लोकाः ९

अन्तर्विश्वमिदं जगत् । ब्रह्मैव भूतानां ज्येष्ठम् । तेन कोऽर्हति स्पर्धितुम् । ब्रह्मन्देवास्त्रयस्त्रिꣳ शत् । ब्रह्मन्निन्द्र प्रजापती ।ब्रह्मन्ह विश्वा भूतानि । नावीवान्तः समाहिता । चतस्र आशाः प्रचरन्त्वग्नयः । इमं नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरं सुवीरम् १०

ब्रह्म समिद्भवत्याहुतीनाम् । आ गावो अग्मन्नुत भद्र मक्रन् । सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युः । इन्द्रा य पूर्वीरुषसो दुहानाः । इन्द्रो यज्वने पृणते च शिक्षति । उपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन् । अभिन्ने खिल्ले निदधाति देवयुम् । न ता नशन्ति । न ता अर्वा ११

गावो भगो गाव इन्द्रो मे अच्छात् । गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्रः । इच्छामीद्धृदा मनसा चिदिन्द्र म् । यूयं गावो मेदयथा कृशं चित् । अश्लीलं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्र वाचः । बृहद्वो वय उच्यते सभासु । प्रजावतीः सूयवसꣳ रिशन्तीः । शुद्धा अप सुप्रपाणे पिबन्तीः । मा वः स्तेन ईशत माघशꣳ सः । परि वो हेती रुद्र स्य वृञ्ज्यात् । उपेदमुपपर्चनम् । आसु गोषूपपृच्यताम् । उपर्षभस्य रेतसि । उपेन्द्र तव वीर्ये १२


2.8.9 काम्यपशूनां याज्यानुवाक्याः

ता सूर्याचन्द्र मसा विश्वभृत्तमा महत् । तेजो वसुमद्रा जतो दिवि । सामात्माना चरतः सामचारिणा । ययोर्व्रतं न ममे जातु देवयोः । उभावन्तौ परियात अर्म्या । दिवो न रश्मीꣳ स्तनुतो व्यर्णवे । उभा भुवन्ती भुवना कविक्रतू ।सूर्या न चन्द्रा चरतो हतामती ।पती द्युमद्विश्वविदा उभा दिवः । सूर्या उभा चन्द्र मसा विचक्षणा १

विश्ववारा विरिवोभा वरेण्या । ता नोऽवतं मतिमन्ता महिव्रता । विश्ववपरी प्रतरणा तरन्ता । सुवर्विदा दृशये भूरिरश्मी ।सूर्या हि चन्द्रा वसु त्वेष दर्शता । मनस्विनोभानुचरतो नु सं दिवम् । अस्य श्रवो नद्यः सप्त बिभ्रति । द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्र मसाभिचक्षे । श्रद्धे कमिन्द्र चरतो विचर्तुरम् २

पूर्वापरं चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्टे । ऋतूनन्यो विदधज्जायते पुनः । हिरण्यवर्णाः शुचयः पावका । यासाꣳ राजा । ।यासां देवाः । शिवेन मा चक्षुषा पश्यत । ।आपो भद्रा । आदित्पश्यामि । ।नासदासीन्नो सदासीत्तदानीम् । नासीद्र जो नो व्योमापरो यत् । किमावरीवः कुह कस्य शर्मन् ३

अम्भः किमासीद्गहनं गभीरम् । न मृत्युरमृतं तर्हि न रात्रिया अह्न आसीत्प्रकेतः । आनीदवातꣳ स्वधया तदेकम् । तस्माद्धान्यं न परः किं चनास । तम आसीत्तमसा गूढमग्रे प्रकेतम् । सलिलꣳ सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत् । तमसस्तन्महिनाजायतैकम् । कामस्तदग्रे समवर्तताधि ४

मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । तिरश्चीनो विततो रश्मिरेषाम् । अधः स्विदासी३दुपरि स्विदासी३त् । रेतोधा आसन्महिमान आसन् । स्वधा अवस्तात्प्रयतिः परस्तात् । को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनाय ५

अथा को वेद यत आबभूव । इयं विसृष्टिर्यत आबभूव । यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् । सो अङ्ग वेद यदि वा न वेद । किꣳ स्विद्वनं क उ स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तत् । यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ६

यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः । ब्रह्माध्य-तिष्ठद्भुवनानि धारयन् । प्रातरग्निं प्रातरिन्द्र ꣳ! हवामहे । प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिम् । प्रातः सोममुत रुद्र ꣳ! हुवेम । प्रातर्जितं भगमुग्रꣳ हुवेम । वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चित् ७

राजा चिद्यं भगं भक्षीत्याह । भग प्रणेतर्भग सत्यराधः । भगेमां धियमुदव ददन्नः । भग प्र णो जनय गोभिरश्वैः । भग प्र नृभिर्नृवन्तः स्याम । उतेदानीं भगवन्तः स्याम । उत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्त्सूर्यस्य । वयं देवानाꣳ सुमतौ स्याम । भग एव भगवाꣳ अस्तु देवाः ८

तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीमि । स नो भग पुर एता भवेह । समध्वरायोषसो नमन्त । दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नः । रथमिवाश्वा वाजिन आवहन्तु । अश्वावतीर्गोमतीर्न उषासः । वीरवतीः सदमुच्छन्तु भद्रा ः! । घृतं दुहाना विश्वतः प्रपीनाः । यूयं पात स्वस्तिभिः सदा नः ९

  1. वाचे वेहतम् इति सूत्रकारेण। गर्भघातिनी गौर्वेहदित्युच्यते, तस्य पशोः सूक्ते प्रतीकद्वयं
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy