सामग्री पर जाएँ

बाबा आमटे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुरलीधर् देवदास् आमटे
बाबा आमटे
जन्म

डिसेम्बर् २६, १९१४[]
हिङ्गणघाट, ब्रिटिशाधीनम् भारतम्

(वर्तमाने- महाराष्ट्रम्, भारम्)
मृत्युः ९ २००८(२००८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०९) (आयुः ९४)
आनन्दवान्, महाराष्ट्रम्, भारतम्
देशीयता भारतीयः
शिक्षणस्य स्थितिः Calcutta School of Tropical Medicine Edit this on Wikidata
वृत्तिः सामाजिक कार्यकर्ता, पत्रकार, वक़ील, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
भार्या(ः) साधना आमटे
अपत्यानि डा.विकास आमटे
डा. प्रकाश आमटे
जालस्थानम् http://www.anandwan.in/baba-amte.html
हस्ताक्षरम्

बाबा आमटे (मराठी: बाबा आमटे, आङ्ग्ल: Baba Amte) महाराष्ट्रराज्यस्य महान् समाजसेवकः । सः कुष्ठरोगिणां सेवकः, स्वातन्त्र्यसेनानी, 'नर्मदाबचाव' आन्दोलनस्य प्रवक्ता च आसीत् । आमटेवर्यस्य मूलनाम 'मुरलीधर देवीदास आमटे' इति । जनैः प्रेम्णा, सः 'बाबा' इति सम्बोध्यते स्म[][][] । अतः बाबा आमटे इत्येवं प्रसिद्धः सः ।

बाबा आमटेवर्यः, तस्य पत्नी साधनाताई

जन्म, शिक्षणं, कार्यपृष्ठभूमि: च

[सम्पादयतु]

बाबा आमटेवर्यस्य जन्म 'डिसेम्बर्' मासस्य २६ दिनाङ्के १९१४ तमे वर्षे वर्धामण्डलस्य हिङ्गणघाटग्रामे अभवत् । तस्य जन्म धनिक(जहागिरदार)गृहे अभवत् । सः विधिविषयकं शिक्षणं प्राप्तवान् । सः कलारसिकः आसीत् । सः यौवनकाले आङ्ग्लचलच्चित्रसमीक्षणम् (critique) कृत्वा आङ्ग्लमासिकपत्रिकासु लिखति स्म । नागपुरविद्यापीठे तस्य शिक्षणम् जातम् । वर्धामण्डले वरोरानगरे तेन अधिवक्तृरूपेण कार्यं कृतम् । परम् अधिवक्तृकार्ये तस्य रुचिः नष्टा अभवत् । सः कृषकाणां एकत्रीकरणार्थं यत्तवान् । तेन स्वातन्त्र्यसङ्ग्रामे भागः गृहीतः । तदर्थं तस्य कारावासोऽपि सोढव्यः आसीत् । वर्धा इत्यस्मिन्नगरे स्थिते गान्धि आश्रमे अपि तस्य वास्तव्यम् आसीत् । म.गान्धि-टागोर-विनोबा भावे-सानेगुरुजीमहोदयाः आमटेवर्यस्य आदर्शाः आसन् । १९४६ तमे वर्षे साधना इत्येतन्नाम्नया कन्यया सह आमटेवर्यस्य विवाहः जातः[] । सा अपि स्वकुलस्य धनिकतां परित्यज्य आमटेमहोदयेन सह सामाजिककार्ये भागं गृहीतवती ।

सेवाकार्यम्

[सम्पादयतु]
आमटेवर्य:,पत्नी साधना,पुत्रद्वयम्

युवावस्थात: आमटेवर्य: सामाजिकक्षेत्रे कार्यं कर्तुम् उद्युक्तः आसीत् । युवावस्थायाम् एका घटना घटिता या तस्य जीवनस्य दिग्दर्शिका अभवत् । आमटेवर्यः एकवारम् एकं कुष्ठरुग्णं (leprosy patient) अपश्यत् । रोगेण त्रस्तः सः रुग्णः वर्षासमये असाहाय्यताम् अनुभूतवान् । तस्य असाहाय्यतां दृष्ट्वा आमटेवर्येण मनसि निर्धारितं यत् "कुष्ठरोगिजनानां कृते अहं कार्यं करोमि" इति । अत: १९४९ वर्षात् आरभ्य आजीवनं स: कुष्ठरोगिजनानां कृते कार्यरत: आसीत्[] । कुष्ठरोगिजना: तु अस्पृश्याः इति जनमान्यता आसीत् तदा । सः कुष्ठरोगिणां विकासविषये, जीवनसमस्याविषये च बहु चिन्तनं कृतवान् । चिन्तनानुसारम् आचरणमपि आमटेवर्यः करोति स्म । 'आनन्दवनम्' इति तत्कार्यस्यैव अपरनाम । 'महारोगिसेवासमितिः’ इत्यस्या: संस्थायाः स्थापनेन आमटेवर्येण कार्यं प्रारब्धम् । अस्यां संस्थायां प्राथमिकस्तरे केचन प्रकल्पा: आरब्धा: । यथा -
१ आनन्दवन
२ सोमनाथ
३ लोकबिरादरी

आनन्दवन

[सम्पादयतु]

ये जनाः कुष्ठरोगपीडिताः तेषां कृते पुनरावासकेन्द्रम् (rehabilitation centre) आनन्दवनम् । १९५१ तमे वर्षे आमटेवर्येण कार्यार्थं सर्वकारात् कश्चन भूभाग: लब्ध: । सः भूभागः अरण्यान्तर्गतः, वन्यजन्तुभिः आकुलः च आसीत् । १९५२ त: औपचारिकरूपेण आनन्दवनस्य कार्यं प्रारब्धम् । आमटेवर्येण तदा स्वयमेव कुष्ठशुश्रूषाविषये ज्ञानम् अधिगतम् । प्रारम्भे सः, तस्य पत्नी, पुत्रद्वयं, केचन कुष्ठरोगिणः च आनन्दवनं गतवन्तः । प्रारम्भे तैः मिलित्वा सामूहिककृषि: प्रारब्धा । ततः यत् धनं प्राप्तं, तेन आनन्दवनकार्यम् अग्रे नीतम् ।

आमटेवर्यः कुष्ठरोगिजनान् तत्र एकत्रीकृत्य तेषां सेवां, परिचर्यां च अकरोत् । प्रारम्भिकस्तरे निवासार्थं स्थानम् अपि नासीत्, तथापि सः कार्यं न त्यक्तवान् । १९५१ त: २००८ पर्यन्तं ३५०० रुग्णाः तत्र आसन् । अधुना न केवलं कुष्ठरुग्णानां कृते, अपि तु अन्ध-मूक-बधिर-शारीरिक-क्षति-ग्रस्तजनानां कृतेऽपि बहुप्रकल्पाः प्रचलन्ति । आमटेवर्येण कुष्ठरुग्णानां न तु केवला सेवा कृता, अपि तु तेषाम् आत्मविश्वासवर्धनार्थं, मानसिकसबलीकरणार्थम् अपि यत्नो विहित: । तेन तेषाम् उपजीविकाविषये अपि योजनाः कल्पिताः । आनन्दवनकारणेन कुष्ठरुग्णान् प्रति जनानां वीक्षणदृष्टिः परिवर्तिता । अतः आनन्दवनं सार्थनामधेयम् ।

आनन्दवनस्य योजनाः -
आनन्दवने बहवः जनाः निवसन्ति - केचन रुग्णाः, केचन कार्यकर्तारः । आमटेवर्यस्य कल्पना आसीत् – कुटुम्बरूपेण कार्यं करणीयं जनैः । अस्याः कल्पनायाः बहुयोजनाः उद्भूताः । यथा -

१ सुखसदन - आनन्दवनस्थैः दम्पतिभिः तत्रस्थस्यैव एकस्य वृद्धस्य परिवारसदस्यरूपेण स्वीकारः, तेन सुखसदननिर्माणम् इत्येवं योजना । अनेन कुटुम्बे वृद्धजनानां साहाय्यमपि भवति, दम्पतीशिशोः पालनमपि उत्तमं भवितुम् अर्हति ।

२ कृषिनिकेतनः विवाहित-अविवाहितकुष्ठरुग्णानां निवासस्थानमिदम् । अत्र निवसन्तः जनाः कृषिक्षेत्रे कार्यरताः ।

३ अन्धमूकबधिरजनेभ्यः आवासयोजना – प्रारम्भिकस्तरे कुष्ठरुग्णेभ्यः साहाय्यहस्तं प्रदाय तदनन्तरम् आनन्दवनेन अन्धमूकबधिरजनेभ्यः आवासव्यवस्था कल्पिता ।

४ 'उत्तरायण' – वृद्धजनानाम् आवासस्थानम् । वृद्धानाम् अनुभवाः आनन्दवनकार्ये प्रज्ञाकोश(Wisdom Bank)रूपेण मार्गदर्शकाः स्युः इति मत्वा आमटेवर्यः एनं प्रकल्पं प्रारब्धवान् ।

५ 'गोकुळ' – कुष्ठरुग्णानां कुष्ठरोग-अपीडिताः शिशवः अत्र पाल्यन्ते ।

कार्यप्रणालिः(Spectrom of Work)

[सम्पादयतु]

- आरोग्यव्यवस्थाः - कुष्ठरुग्णालयः, नेत्ररुग्णालयः, सामान्यरुग्णालयः(O.P.D.), रक्तदानशिबिराणि च ।
- कुष्ठरुग्णानां पुनरावासव्यवस्था
- शारीरिकक्षतिग्रस्तेभ्यः (for physically challenged) निम्नलिखिताः योजनाः सन्ति -

  • व्यावसायिकप्रशिक्षणयोजना, उद्यमसम्बद्ध-उत्पादनकार्याणि(production oriented units), स्वरानन्दवननामकं वाद्यवृन्दम्, शारीरिकक्षतिग्रस्तेभ्यः आवश्यकवस्तूनाम् उत्पादनं, कृषि:, शिक्षणं च ।
  • पर्यावरणपूरकयोजनाः (Eco-friendly innovations)
  • युवभ्य: योजनाः
  • योग-ध्यान-योजनाः

सोमनाथप्रकल्पः

[सम्पादयतु]

आनन्दवने कुष्ठरोगनिवारणानन्तरंम् आत्मविश्वासं प्राप्य स्वतन्त्रतया ये निवसितुम् इच्छन्ति, तेभ्यः सोमनाथप्रकल्पः । अस्मिन् प्रकल्पान्तर्गतग्रामे इदानीं ५५० जनाः निवसन्ति, कृषिकार्यं च कुर्वन्ति ।

सोमनाथप्रकल्प:

लोकबिरादरीप्रकल्पः

[सम्पादयतु]

वने निवसन्तः आदिवासिनः समस्याभिः ग्रस्ताः । ताभ्यः समस्याभ्यः तान् मोचयितुं तेषां विकासः करणीयः, तेभ्यः अपि आरोग्यव्यवस्था कल्पनीया इति धिया अयं प्रकल्पः प्रारब्धः । एतदर्थम् अरण्यव्यापृतस्य गडचिरोलीमण्डलस्य सीमावर्तिभागः निर्धारितः, कार्यं च ततः आरब्धम् । आदिवासिभ्यः चलच्चिकित्सालयः (mobile hospital), चलच्छिक्षणं (mobile education) च प्रकल्पेऽस्मिन् अन्तर्भवति ।

कविः आमटेवर्यः

[सम्पादयतु]

यथा आमटेवर्यस्य कार्यं तथैव तस्य शब्दसामर्थ्यमपि प्रेरणादायकम् । आमटेवर्येण 'ज्वाला आणि फुले’, 'उज्ज्वल उद्यासाठी’, 'माती जागवील त्याला मत' इत्येते काव्यसङ्ग्रहाः रचिताः । आत्यन्तिकं प्रेरणादायि इदं साहित्यम् ।

आन्दोलनकार्यम्

[सम्पादयतु]

- १९८५ तमे वर्षे आनन्दवनसदस्याः भारतदेशस्थयुवभिः सह द्विचक्रिकया (bicycle) कन्याकुमारीतः काश्मीरपर्यन्तं शान्तिसन्देशयात्रां कृतवन्तः ।
- १९८८ तमे वर्षे अरुणाचलतः ओखापर्यन्तं द्विचक्रिकया यात्रां कुर्वन्तः ते तत्तद्भागस्थजनेषु भ्रातृभावं प्रसारितवन्तः ।
- १९९० त: २००० पर्यन्तम् आमटेवर्यः 'नर्मदाबचाव’आन्दोलनस्थाने उषित्वा प्रवक्तृरूपेण भागं गृहीतवान् । शान्तिस्थापनायै, पर्यावरणविषये जनजागरणार्थं च तेन अस्मिन् आन्दोलने भागः ऊढः ।

पुरस्कारा:

[सम्पादयतु]

बहुपुरस्कारैः आमटेवर्यः विभूषितः । पद्मश्री, पद्मविभूषण, गान्धिशान्तिपुरस्कारः च पुरस्कारेण सः सम्मानितः । अमेरिकादेशस्य 'डेमियन-डट्टन' पुरस्कारेण बाबाआमटेवर्य: १९८३ तमे वर्षे विभूषितः । १९८५ तमे वर्षे 'मेगसेसे’ पुरस्कारः अपि प्राप्तः तेन । 'अपङ्ग कल्याण'- सावित्रीबाई फुले-डा.आम्बेडकर-‘महाराष्ट्रभूषण'- इन्दिरा गान्धि-जी.डी.बिर्ला- -‘दलितमित्र’पुरस्काराः तेन विभूषिताः ।

परिवारजनाः

[सम्पादयतु]

पितुः प्रेरणया आमटेवर्यस्य सुतौ उच्चशिक्षणं प्राप्य समाजकार्यं प्रविष्टवन्तौ । कनिष्ठसुतः प्रकाशआमटेवर्यः 'हेमलकसा'क्षेत्रे कार्यरतः । ज्येष्ठसुतः विकासआमटेवर्यः वरोराग्रामस्थे आनन्दवने कार्यं करोति । अधुना आमटेवर्यस्य तृतीया-वंशश्रेणी अपि सामाजिककार्ये एव कार्यरता दृश्यते ।

निधनम्

[सम्पादयतु]

अन्तिमकाले आमटेवर्यः उपवेष्टुम् असमर्थः अभवत्, यतः तस्य पृष्ठास्थिपीडा समुत्पन्ना । आमटेवर्यः ९ फेब्रुवरि २००८ इत्येतस्मिन् दिनाङ्के देहयात्रां समापितवान् । परं तस्य कार्यं, तस्य शब्दाः च जगतः कृते प्रेरणारूपेण वर्तन्ते एव ।

सन्दर्भलेखाः

[सम्पादयतु]

मातृकापरिचयः Archived २०१३-०८-१० at the Wayback Machine

टिप्पणी

[सम्पादयतु]
  1. "India daily obituary". Archived from the original on 2010-06-17. आह्रियत 2014-01-06. 
  2. २.० २.१ "Collector office chandrapur -Maharashtra Bhushan Baba Amte". 
  3. "An interview with Baba Amte". 
  4. Wisdom song: My Mother's Madness. Archived from the original on 2011-07-27. आह्रियत 2014-01-06. 
  5. Students' Britannica India. Popular Prakashan. 2000. p. 62. ISBN 0-85229-760-2. 

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=बाबा_आमटे&oldid=481683" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy